|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.340. अध्यायः 340
Mahabharata - Shanti Parva - Chapter Topics
शुकेन कैलासशिखरादन्तरिक्षोत्पतनम्॥ 1॥ शुकेनात्मानमवलोकयतो देवान्प्रति व्यासेन शुकेत्याक्रोशे तंप्रतिप्रतिवचनचोदना॥ 2॥

Mahabharata - Shanti Parva - Chapter Text
भीष्म उवाच। 12-340-0x(6558)(79311)
गिरिशृङ्गं समारुह्य सुतो व्यासस्य भारत।
समे देशे विविक्ते स निःशलाक उपाविशत्॥ 12-340-1(79312)
धारयामास चात्मानं यथाशास्त्रं यथाविधि।
पादप्रभृतिगात्रेषु क्रमेण क्रमयोगवित्॥ 12-340-2(79313)
ततः स प्राङ्भुखो विद्वानादित्ये नाचिरोदिते।
पाणिपादं समाधाय विनीतवदुपाविशत्॥ 12-340-3(79314)
न तत्र पक्षिसंपातो न शब्दो नापि दर्शनम्।
यत्र वैयासकिर्धीमान्योक्तुं समुपचक्रमे॥ 12-340-4(79315)
स ददर्श तदाऽऽत्मानं सर्वसङ्गविनिःसृतम्।
प्रजहास ततो हासं शुकः संप्रेक्ष्य तत्परम्॥ 12-340-5(79316)
स पुनर्योगमास्थाय मोक्षमार्गोपलब्धये।
महायोगेश्वरो भूत्वा सोऽत्यक्रामद्विहायसम्॥ 12-340-6(79317)
ततः प्रदक्षिणं कृत्वा देवर्षि नारदं ततः।
निवेदयामास च तं स्वं योगं परमर्षये॥ 12-340-7(79318)
शुक उवाच। 12-340-8x(6559)
दृष्टो मार्गः प्रवृत्तोस्मि स्वस्ति तेऽस्तु तपोधन।
त्वत्प्रसादाद्गमिष्यामि गतिमिष्टां महाद्युते॥ 12-340-8(79319)
नारदेनाभ्यनुज्ञातः शुको द्वैपायनात्मजः।
अभिवाद्य पुनर्योगमास्थायाकाशमाविशत्॥ 12-340-9(79320)
कैलासपृष्ठादुत्पत्य स पपात दिवं तदा।
अन्तरिक्षचरः श्रीमान्व्यासपुत्रः सुनिश्चितः॥ 12-340-10(79321)
तमुद्यन्तं द्विजश्रेष्ठं वैनतेयसमद्युतिम्।
ददृशुः सर्वभूतानि मनोऽमारुतरंहसम्॥ 12-340-11(79322)
व्यवसायेन लोकांस्त्रीन्सर्वान्सोऽथ विचिन्तयन्।
आस्थितो दिव्यमध्वानं पावकार्कसमप्रभः॥ 12-340-12(79323)
तमेकमनसं यान्तमव्यग्रमकुतोभयम्।
ददृशुः सर्वभूतानि जङ्गमानीतराणि च॥ 12-340-13(79324)
यथाशक्ति यथान्यायं पूजयांचक्रिरे तदा।
पुष्पवर्षेश्च दिव्यैस्तमलंचक्रुर्दिवौकसः॥ 12-340-14(79325)
तं दृष्ट्वा विस्मिताः सर्वे गन्धर्वाप्सरसां गणाः।
ऋषयश्चैव संसिद्धाः परं विस्मयमागताः॥ 12-340-15(79326)
अन्तरिक्षगतः कोऽयं तपसा सिद्धिमागतः।
अधः कायोर्ध्ववक्रश्च नेत्रैः समतिवाह्यते॥ 12-340-16(79327)
ततः परमधर्मात्मा त्रिषु लोकेषु विश्रुतः।
भास्करं समुदीक्षन्स प्राङ्भुखो वाग्यतोऽगमत्।
शब्देनाकाशमखिलं पूरयन्निव सर्वशः॥ 12-340-17(79328)
तमापतन्तं सहसा दृष्ट्वा सर्वाप्सरोगणाः।
संभ्रान्तमनसो राजन्नासन्परमविस्मिताः।
पञ्चचूडाप्रभृतयो भृशमुत्फुल्ललोचनाः॥ 12-340-18(79329)
दैवतं कतमं ह्येतदुत्तमां गतिमास्थितम्।
सुनिश्चितमिहायाति विमुक्तमिव निःस्पृहम्॥ 12-340-19(79330)
ततः समभिचक्राम मलयं नाम पर्वतम्।
उर्वशी पूर्वचित्तिश्च यं नित्यमुपसेवतः॥ 12-340-20(79331)
तस्य ब्रह्मर्षिपुत्रस्य विस्मयं ययतुः परम्।
अहो बुद्धिसमाधानं वेदाभ्यासरते द्विजे॥ 12-340-21(79332)
अचिरेणैव कालेन नभश्चरति चन्द्रवत्।
पितृशुश्रूषया बुद्धिं संप्राप्तोऽयमनुत्तमाम्॥ 12-340-22(79333)
पितृभक्तो दृढतपाः पितुः सुदयितः सुतः।
अनन्यमनसा तेन कथं पित्रा विसर्जितः॥ 12-340-23(79334)
उर्वश्या वचनं श्रुत्वा शुकः परमधर्मवित्।
उदैक्षत दिशः सर्वा वचने गतमानसः॥ 12-340-24(79335)
सोऽन्तरिक्षं महीं चैव सशैलवनकाननाम्।
विलोकयामास तदा सरांसि सरितस्तथा॥ 12-340-25(79336)
ततो द्वैपायनसुतं बहुमानात्समन्ततः।
कृताञ्जलिपुटाः सर्वा निरीक्षन्ते स्म देवताः॥ 12-340-26(79337)
अब्रवीत्तास्तदा वाक्यं शुकः परमधर्मवित्।
पिता यद्यनुगच्छेन्मां क्रोशमान शुकेति वै॥ 12-340-27(79338)
तस्य प्रतिवचो देयं सर्वैरेव समाहितैः।
एतन्मे स्नेहनः सर्वे वचनं कर्तुमर्हथ॥ 12-340-28(79339)
शुकस्य वचन श्रुत्वा दिशः सजलकाननाः।
समुद्राः सरितः शैलाः प्रत्यूचुस्तं समन्ततः॥ 12-340-29(79340)
यथा ज्ञापयसे विप्र बाढमेवं भविष्यति।
ऋषेर्व्याहरतो वाक्यं प्रतिवक्ष्यामहे वयम्॥ ॥ 12-340-30(79341)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि चत्वारिंशदधिकत्रिशततमोऽध्यायः॥ 340॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-340-1 निःशलाके निस्तृणे॥ 12-340-16 अधःकायात् ऊर्ध्वं वकं यस्य। सूर्ये दत्तदृष्टिरतः स्वदेहस्याधोभागं न पश्यतीत्यर्थः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|